भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 121 to 130 of 890 verses
तेनेयं मदयन्तिकाद्य भवतः प्रीत्यै तव प्रेयसे मित्राय प्रथमानुरागघटिताप्यस्माभिरुत्सृज्यते॥ १७॥

(७. प्रयोजनतः —८)

प्रयोजनेषु—

४९. मा भूदनयोः परस्परमयोगादत्याहितमिति दया, यथा—(मामा. ४.५)

मा वां सपत्‍नेष्वपि नाम तद् भूत् पापं यदस्यां त्वयि वा विशङ्क्यम्।

तत् सर्वथा सङ्गमनाय यत्‍नः प्राणव्ययेनापि मया विधेयः॥ १८॥

५०. नायकेन नायिकायां हृदयबन्धनं स्‍नेहः, यथा—(मामा. ६.७)

विधाता भद्रं नो वितरतु मनोज्ञाय विधये विधेयासुर्देवाः परममरणीयां परिणतिम्।

कृतार्थौ भूयास्तां प्रियसुहृदपत्ये परमतः प्रयत्‍नः कृत्स्‍नोऽयं फलतु शिवतातिश्च भवतु॥ १९॥

५१. युक्ताविमौ परस्परस्येति कुतूहलं, यथा—(मामा. १.१६)

Showing 121 to 130 of 890 verses