शरज्ज्योत्स्नाकान्तं कुमुदमिव तं नन्दयतु सा सुजातं कल्याणी भवतु कृतकृत्यस्स च युवा।
वरीयानन्योन्यप्रगुणगुणनिर्माणनिपुणो विधातुर्व्यापारः फलतु च मनोज्ञश्च भवतु॥ २०॥
५२. लज्जादिभिः नायकयोरनिर्वादे वस्तुनो/वस्तुनि ज्ञानमभिप्रायोपलम्भः, यथा—
तस्मिन् समावेशितचित्तवृत्तिमिन्दुप्रभामिन्दुमतीमवेत्य।
प्रचक्रमे वक्तुमनुक्रमज्ञा सविस्तरं वाक्यमिदं सुनन्दा॥ २१॥
५३. नायकयोः पूर्वपुरुषैः तत्र वस्तुनि प्रोत्साहनं पूर्वप्रार्थना, यथा—(मामा. १.९)
यन्मां विधेयविषये स भवान्नियुङ्क्ते स्नेहस्य तत्फलमसौ प्रणयस्य सारः।
प्राणैस्तपोभिरथवाऽभिमतं मदीयैः कृत्यं घटेत सुहृदो यदि तत् कृतं स्यात्॥ २२॥
५४. सैव नायके नायिकाया विहितान्यतरप्रार्थना यथा—(मामा. ४.६)