दया वा स्नेहो वा भवति हि निजेऽस्मिन् शिशुजने भवत्यास्संसाराद् विरतमपि चित्तं द्रवयति।
अतश्च प्रव्रज्यासुलभसमयाचारविमुखः प्रसक्तस्ते यत्नः प्रभवति पुनर्दैवमपरम्॥ २३॥
५५. फलनिरपेक्षाप्रवृत्तिश्शीलम्, यथा—(कुसं. १.५०)
तां नारदः कामचरः कदाचित् कन्यां किल प्रेक्ष्य पितुस्समीपे।
समादिदेशैकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य॥ २४॥
५६. परस्परस्पर्धा सङ्घर्षः, यथा—
अह भणइ अअलसामी कइवअ—दिअसंतरंत—मज्झम्मि।
णाणेसि पाअमूले जइ गणिअं ता ण जीआमि॥ २५॥
(अथ भणति अचलस्वामी कतिपयदिवसान्तरान्तमध्ये।
नानयसि पादमूले यदि गणिकां तर्हि न जीवामि॥)