९. पितृपैतामहः, वत्सराजस्य यौगन्धरायणः तापसवत्सराजे।
१०. अदृष्टवैकृतः, बन्धुदत्तः शूद्रकस्य विनयवत्युपयमने।
११. अविसंवादकः, नलः देवानां नलोपाख्याने।
१२. अलोभशीलः, शन्तनोर्देवव्रतः सत्यवतीवरणे।
१३. अपरिहार्या/अनपहार्या, उदयनस्य वासवदत्ता पद्मावतीविवाहे।
१४. अमन्त्र(वि)स्रावी, माधवादीनां भूरिवसुः मालतीमाधवे।
१५. धार्मिकः, अभिमन्योः बीभत्सुः उत्तरोपयमने।
१६. भरमहिष्णुः, विश्वामित्रः रामलक्ष्मणयोः सीतोर्मिलाप्रदाने इति।