सुरअसुहलालसाहिं पिअअमरत्थंतरेसु पुणरुत्तं।
पेसिज्जंति सरहसं समअं दूईहि दिट्टीओ॥ १२॥
{सुरतसुखलालसाभिः प्रियतमरथ्यान्तरेषु पुनरुक्तम्।
प्रेष्यन्ते सरभसं समकं दूतीभिः दृष्टयः॥}
कं तुंगथगुक्खित्तेण पुत्ति दारट्ठिआ पलोएसि।
उण्णामिअ-कलस-णिवेसिअग्घकमलेण व मुहेण॥ १३॥
(कं तुङ्गस्तनोत्क्षिप्तेन पुत्रि द्वारस्थिता प्रलोकयसि।
उन्नमितकलशनिवेशितार्घकमलेनेव मुखेन ॥)