४. दूतानुगमो यथा—(गास. ५.४०)
तं भणहि दूइ एअं ण इमं एअं ति अणुपहमिमाए।
पुणरुत्तं सीसंता कह—वि समप्पंति संदेसा॥ ८॥
(तं भण दूति एतन्नेदमेतदिति अनुपदमनया।
पुनरुक्तं कथ्यमानाः कथमपि समाप्यन्ते संदेशाः॥)
सेडल्लियसव्वङ्गी गोत्तग्गहणेण तस्स सुहअस्स।
दूइं पट्ठाएन्ती तस्सेअ घरङ्गणं पत्ता॥ ९॥
(स्वेदार्दीकृतसर्वाङ्गी गोत्रग्रहणेन तस्य सुभगस्य।
दूतीं प्रस्थापयन्ती तस्यैव गृहाङ्गणं प्राप्ता॥)