५. सखीविगर्हणं यथा—(गास. ५.१२)
सुप्पउ तइओ वि गओ जामो त्ति सहिओ कीस मं भणह।
सेहालिआणं गंधो ण देइ सोत्तुं, सुअह तुम्हे॥ १०॥
(सुप्यतां तृतीयोऽपि गतो याम इति सख्यः किमिति मां भणथ।
शेफालिकानां गन्धो न ददाति स्वप्तुं स्वपत यूयम्॥)
किं भणह मं सहिओ 'मा मर, दीसिहह सो जिअंतीए'।
कज्जालाओ एसो सिणेहमग्गो उण ण होइ॥ ११॥
(किं भणथ मां सख्यः मा म्रियस्व द्रक्ष्यते स जीवन्त्या।
कार्यालाप एष स्नेहमार्गः पुनर्न भवति॥)