४. संक्षिप्तः १०. साधर्म्यकृतः १६. धर्मविषयः २२. वयःकृतः
५. विक्षिप्तः ११. वैधर्म्यकृतः १७. धर्मिविषयः २३. वैदग्ध्यकृतः
६. समस्तः १२. महाविषयः १८. समयजन्मा २४. सौभाग्यकृतः, इति।
१.३.१ द्रव्यगोचरो यथा—(गास. ३.५८)
करि-कलभ-कुंभ-सण्णिह-थणभर-भज्जंत-तणुअ-मज्झाओ।
संसारंमि असारे सारं सारंगणअणाओ॥ १२०॥
(करिकलभ-कुम्भसन्निभ-स्तनभर-भज्यमान-तनुकमध्याः।
संसारे असारे सारं सारङ्गनयनाः॥)
१.३.२गुणगोचरो यथा—(गास. ३.८८)