(फुल्लन्निरन्तरतरुणवञ्जुलवनस्निग्धकूलायाः ।
गोदानद्या निकटवासिनी सतीति मा पुत्रि! प्रतीहि॥)
१.२.८ (क) गीतनिमित्तो यथा—
केणावि अज्ज गोसे कंपि/अंबवणे वल्लहं म्हरंतेण।
दूसह—मअण—सराहअ—हिअअवण—प्फोडणं गीअं॥ ११७॥
(केनाप्यद्य प्रभाते कामापि वने वल्लभां स्मरता।
अहो मदनशराहतहृदयव्रणस्फोटनं गीतम्॥)
१.२.८ (ख) उत्सवनिमित्तो यथा—(गास. १.३९)
साहिणे पि पिअअमे पत्ते वि छणे ण मंडिओ अप्पा।
दुग्गअ—पउत्थ—वइअं—सअज्झिअं संठवंतीए॥ ११८॥