(स्वाधीनेऽपि प्रियतमे प्राप्तेऽपि क्षणे न मण्डित आत्मा।
दुर्गतप्रोषितपतिकां प्रतिवेशिनीं संस्थापयन्त्या॥)
१.२.८ (ग) चूतनिमित्तो यथा—(सूमु.२०)
किं द्वारि दैवहतिके! सहकारकेण संवर्धितेन विषपादप एष पापः।
अस्मिन् मनागपि विकासविकारभाजि भीमा भवन्ति मदनज्वरसन्निपाताः॥ ११९॥
सामान्यानुरागोऽपि चतुर्विंशतिप्रकारः—
१. द्रव्यगोचरः ७. व्यस्तः १३. अल्पविषयः १९. सम्बन्धजन्मा
२. गुणगोचरः ८. शुद्धः १४. देशहेतुः २०. प्राकृतः
३. कर्मगोचरः ९. सङ्कीर्णः १५. कालहेतुः २१. वैकृतः