णिम्मविअसंधिअंमा ताव अ दूरपडिबद्धवम्महपसरा।
गरुअं सुरउच्छाहं दाऊण सहि व्व जामिणी गआ तीए॥ ११२॥
(निर्मापितसन्धिकर्मा तावच्च दूरप्रतिबद्धमन्मथप्रसरा।
गुरुकं सुरतोत्साहं दत्त्वा सखीव यामिनी गता तस्याः॥)
ओलोइअंमि तुलिआं पिआहि गहिअम्मि संभमेण वलइअं।
पडिचक्खिअम्मि कअं च प/पिए सुसंधिअ—सरं अणंगेण धणुं॥ ११३॥
(अवलोकने तुलितं प्रियाभिर्गृहीते सम्भ्रमेण वलयितम्।
आस्वादिते/प्रत्याख्याते कृतं च संहितशरमनङ्गेन धनुः॥)