जं तं रूवं जं तं पअंपिअं जं पि तं पि णेवच्छं।
तरुणीअणसंबद्धं अण्णं विअ किं पि तं होइ॥ १२३॥
(यत् तद् रूपं, यत् तत् प्रजल्पितं यदपि तदपि नेपथ्यम्।
तरुणीजनसंबद्धं अन्यदिव किमपि तद् भवति॥)
अंगाइ/ हसिआइ समालस/ समंसल—कोमलाइ वीसंभकोमलं भणिअं।
सब्भावकोमलं पुलइअं अ णमिमो सुमहिलाणं॥ १२४॥
(अङ्गानि/हसितानि श्रमालससमांसल—कोमलानि विस्त्रंभकोमलं भणितम्।
सद्भावकोमलं प्रलोकितं च नमामः सुमहिलानाम्॥)
१.३.६ समस्तो यथा—(गास. ५.७३)