आअं/तंबलोअणाणं ओल्लंसुअपाअडोरु—जहणाणं।
अवरण्हमज्जरीणं कए ण कामो वहइ चावं॥ १२५॥
(आताम्रलोचनानाम् आर्द्रांशुकप्रकटोरुजघनानाम्।
अपराह्णमज्जनशीलानां कस्यै न कामो वहति चापम्॥)
लीला—वेलक्ख—विलास—मसिण—बंधुर—मुहारविंदाइं।
रअओच्छअंमि विलासिणीण सोहग्गहसिआइं॥ १२६॥
(लीलावैलक्ष्यविलासमसृणबन्धुरमुखारविन्दानि।
रतओच्छिअम्मि विलासिनीनां सौभाग्यहसितानि॥)