परिमलिअसुंदराइं दूरपहुप्पंतकोउहल्लाइं।
पुणरुत्तरमिअव्वाइ होंति मुद्धाण सुरआईं॥ १२९॥
{परिमृदितसुन्दराणि दूरप्रभवत्कौतूहलानि।
पुनरुक्त—रन्तव्यानि भवन्ति मुग्धानां सुरतानि॥}
पोढमलिलाणँ जं जं सुसिक्खिअं तं रए सुहावेइ।
जं जं असिक्खिअं णववहूणँ तं तं रइं देइ॥ १३०॥
(प्रौढमहिलानां यद् यत् सुशिक्षितं तद् रते सुखयति।
यद् यदशिक्षितं नववधूनां तत्तद् रतिं ददाति॥)