कुविआओ पसण्णाओ ओरुण्णमुहीओ विहसमाणाओ।
जह गहिआ तह हिअअं हरंति उच्छिण्णमहिलाओ॥ १३१॥
(कुपिताः प्रसन्नाः अवरुदितमुख्यो विहसमानाः।
यथा गृहीतास्तथा हृदयं हरन्ति स्वैरिण्यो/उत्सन्न—महिलाः॥)
१.३.१३अल्पविषयो यथा—(गास. ६.४५)
गामतरुणीओं हिअअं हरंति छेआणॅथणहरिल्लीओ।
मअणे कुसुंभराइल्लकंचु/इआभरणमेत्ताओ॥ १३२॥
(ग्रामतरुण्यो हृदयं हरन्ति छेकानां स्तनभारवत्यः।
मदने कुसुम्भरञ्जितकञ्चुकिताभरणमात्राः॥)