अपचेतुमयाचताग्रतः कलिकामुत्कलिकाबलात्कृता॥ २४९॥
घरसामिअस्स राअं जणेइ सिज्जंतवेविरुल्लसिआ।
असई हिअअब्भंतरभाविअजारा णिहुवणम्मि॥ २५०॥
(गृहस्वामिनो रागं जनयति स्विद्यद्वेपितोद्वेपनशीलो—ल्लसिता।
असती हृदयाभ्यन्तरभावितजारा निधुवने॥)
१.८.१२. निरालम्बनो यथा—(राच. १२.६३)
निषसाद निशीथमल्लिकाशिथिलाश्रुस्तबकाञ्चितस्तनी।
तदनु क्रमशः कपोलयोरुपनीतोभयपाणिपल्लवा॥ २५१॥
१.८.१३. प्रसिद्धविषयो यथा—(गास. २.५६)