एएणं चेअ गुणेण किं ण वेसाण दिज्जए अप्पा।
वेसे व्व पिए व्व जणे जं मुहराओ समो च्चेअ॥ २५४॥
(एतेनैव गुणेन किं न वेश्यानां दृश्यते/दियते आत्मा।
द्वेष्य/वेष इव प्रिय इव जने यन्मुखरागः सम एव॥)
१.८.१६. दुष्प्रयुक्तो यथा—(किराता. १०.४०)
मुनिमभिमुखतां निनीषवो यं/याः समुपययुः कमनीयतागुणेन।
मदनमुपदधे स एव ताभ्यो दुरधिगमाधि/हि गतिः प्रयोजनानाम्॥ २५५॥
वोढवरेण वि तह तेण रामिआ णिअअकज्जणिउणेण।
जह मुद्धाएॅ वि रमिओ मुद्धति वहूएँ णीसंकं॥ २५६॥