(प्रौढवरेणापि तथा तेन रमिता निजककार्यनिपुणेन।
यथा मुग्धयाऽपि रमितो मुग्ध इति वध्वा निश्शंकम्॥)
१.८.१८. अन्यप्रयोजनो यथा—(कुट्टनी. १३४)
माऽत्र करिष्यसि खेदं निष्ठुरमुक्तोऽसि यन्मया सुभग!।
यूनां हि रक्ततरुणीपरुषवचः प्रथममाभरणम्॥ २५७॥
१.८.१९. सप्रतिभेदो यथा—(गास. १.३३)
उण्हाइँ णीससंतो आलिंगसि कीस मं पराहुत्तिं।
हिअअं पलीविउं वि अणुसएण पुटठिं पलीवेसि॥ २५८॥
(उष्णानि निःश्वसन् आलिङ्गसि किमिति मां/कस्मान्मां पराङ्मुखीम्।
हृदयं प्रदीपितमपि अनुशयेन/प्रदीप्यानुशयेन पृष्ठं प्रदीपयसि॥)