विरराज विलासपल्लवैः प्लवगं तं प्रति निष्फलैरपि॥ २४३॥
१.८.५. प्रकाशानुकारी यथा—(सूमु. ७)
दृष्टिं हे प्रतिवेशिनि! क्षणमिहाप्यस्मिन् गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति।
एकाकिन्यपि यामि तद् वनमितः स्त्रोतस्तमालाकुलं नीरन्ध्राः पुनरालिखन्तु जरठच्छेदा नलग्रन्थयः॥ २४४॥
१.८.६. प्रच्छन्नानुकारी यथा—
किं णीलकंठ! गज्ज/च्छसि किं वा सुत्तो सि जणमणाणंद।
तुज्झ कए इह आआ विद्धाहं मअणबाणेहिं॥ २४५॥
(किं नीलकण्ठ! गर्जसि/गच्छसि किं वा सुप्तोऽसि जनमन आनन्द।
तव कृते इह आगता, विद्धाऽहं मदनबाणैः॥)
१.८.७. सहजानुकारी यथा—(राच. १२.५९)