अह्नाय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते॥ २३३॥
१.७.१९. संभेदत्तः — निस्सहजः निर्यौवनजः निराहार्यजः निर्विस्त्रम्भज इति।
रम्भोरु! संहर भयं क्षमते विकारमुत्कम्पितस्तनभरस्य न मध्यभागः।
इत्थं त्वयैव कथितप्रणयप्रसादसङ्कल्पनिर्वृतिषु संस्तुत एष दासः॥ २३४॥
१.७.२०. निर्यौवनजो यथा—(कुसं. ८.७९)
तत्क्षणं विपरिवर्तितह्रियोर्निष्य/च्छतोः शयनमिद्धरागयोः।
सा बभूव वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च॥ २३५॥
१.७.२१. निराहार्यजो यथा—(सूमु. ४१)