वयस्स्नेहाकूतव्यतिकरघनो यत्र मदनः प्रगल्भव्यापाराश्चरति हृदि, मुग्धश्च वपुषि॥ २२८॥
१.७.१४. सहजाहार्यजो यथा—(मामा. ४.८)
तन्मे मनः क्षिपति यत्सरसप्रहार— मालोक्य मामगणितस्खलदुत्तरीया।
त्रस्तैकहायनकुरङ्गविलोलदृष्टि— राश्लिष्टवत्यमृतसंवलितैरपाङ्गैः॥ २२९॥
१.७.१५. सहजविस्त्रम्भजो यथा—(रघु. ७.६७)
इतः परानर्भकहार्यशस्त्रान् वैदर्भि! पश्यानुमता मयाऽसि।
एवं विधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः॥ २३०॥
१.७.१६. यौवनजाहार्यजो यथा—(गास. २.१९, वज्जा. २०६)
अज्ज कइमो वि दिअहो, वाहवहू गरुअ/रूवजोव्वणुम्मत्ता।