कुलपालिकानां तथा तथा अधिकतरं वल्लभो भवति॥)
१.७.१२. प्रगल्भो यथा— (हवि.)
णाअरिआपेम्म विअण्हो वि सब्भावमेत्तसाराइ।
कण्हो राहाएँ सममुज्जुआइ भरइ च्चिअ रआइँ/ आलंइं॥ २२७॥
(नागरिकाप्रेम्णो वितृष्णोऽपि सद्भावमात्रसाराणि।
कृष्णो राधया समं स्मरत्येवाकालम्॥)
सहजयौवनजः, सहजाहार्यजः, सहजविस्त्रम्भजः, यौवनजाहार्यजः, यौवनजविस्त्रम्भजः, आहार्यविस्त्रम्भजः इति। तत्र—
सहजयौवनजो यथा—(उराच. ६.३५)
तदा/यदा किञ्चित् किञ्चित् कृतपदमहोभिः कतिपयै— स्तदेतद् विस्तारि स्तनयुगलमासीन्मृगदृशः।