(लज्जा त्यक्ता, शीलं च खण्डितम्, अयशोघोषणा दत्ता।
यस्य कृते ननु प्रियसखि! स एव जनो जनो जातः॥)
१.७.१०. कालक्रमेण प्ररूढविश्वासयोर्यः प्रकर्षमारहणोपचारादिनाद्रियते स विस्त्रम्भजः ; यथा— (उराच. १.३९)
अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद् विस्त्रम्भो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः।
कानेनावरणात्ययात् परिणते यत् प्रेमसारे स्थितं भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत् प्रार्थ्यते॥ २२५॥
१.७.११. सोऽपि द्विधा— मुग्धः प्रगल्भश्च।
जह जह जरापरिणओ होइ पई दुग्गओ विरूओ अ।
कुलवालिआण तह तह अहिअअरं वल्लहो होइ॥ २२६॥
(यथा यथा जरापरिणतो भवति पतिर्दुर्गतो विरूपश्च।