मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति।
आद्य/अन्याऽपि किं सखि! न भाजनमीदृशानां वैरी न चेद् भवति वेपथुरन्तरायः॥ २३६॥
१.७.२२. निर्विस्त्रम्भजो यथा—(मामा. ७.४)
अद्योर्जितं विजितमेव मया किमन्यदस्योत्सवः फलवतो मम यौवनस्य।
यस्य प्रसादसुमुखेन समुद्धृतेयं देवेन बान्धवधुरा मकरध्वजेन॥ २३७॥
१.७.२३. विभेदः— सहजादिसमूहः सहजाविपर्ययज इति। तत्र
भावसूचितरहस्यविक्रियं चाटुमत् क्षणवियोगकातरम्।
कैश्चिदेव दिवसैस्तथा तयोः प्रेम रूढमितरेतराश्रयम्॥ २३८॥
१.७.२४. द्वितीयो यथा—(गास. ४.९०)