पाअपडिअं अहव्वे! किं दाणिं ण उट्ठवेसि भत्तारं।
एअं विअ अवसाणं दूरं पि गअस्स पेम्मस्स॥ २३९॥
(पादपतितमभव्ये! किमिदानीं नोत्थापयसि भर्तारम्।
एतदेवावसानं दूरमपि गतस्य प्रेम्णः॥)
(१.८ कृत्त्रिमानुरागः —२४)
अथ कृत्रिमः। पूर्वमविद्यमानः कार्यहेतोर्य उपायैः प्रवर्त्यते स कृत्रिमः; सोऽपि चतुर्विंशतिप्रकारः—
१. नित्यानुकारी २. नैमित्तिकानुकारी ३. सामान्यानुकारी
४. विशेषानुकारी ९. आहार्यानुकारी १०. विस्त्रम्भानुकारी
११. सालम्बनः १२. निरालम्बनः १७. सप्रयोजनः
१८. अन्यप्रयोजनः १९. सप्रतिभेदः २०. निष्प्रतिभेदः