भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 961 to 970 of 1013 verses
तर्हि वाचनिकी भविष्यति; किं च प्रतिकीलवत्। तत्र यथा कील आहन्यमानः प्रतिकीलं निवर्त्तयति, एवं नञ् प्रयुज्यमानः पदार्थं निवर्त्तयति।

यद्येतन्नञो माहात्म्यं स्यात्, न जातुचिद् राजानो हस्त्यश्‍वं बिभृयुः, नेत्येव ब्रूयुः।

एवं तर्हि स्वाभाविकी निवृत्तिः, नञ्‌निमित्ता तूपलब्धिः, तद्‍यथा सन्तमसान्धकारे द्रव्याणां प्रदीपनिमित्तं दर्शनम्, न च तेषां प्रदीपो निवर्त्तको भवति। यदि पुनरयं निवृत्तिपदार्थको नञ्, किमर्थं ब्राह्मणशब्दः प्रयुज्यते ?

एवं यथा विज्ञायेत 'अस्य पदस्यार्थो निवृत्त' इति,

नेति ह्युक्‍ते संदेहः स्यात् कस्य पदार्थो निवर्त्तत इति; तत्रासंदेहार्थं ब्राह्मणशब्दः प्रयुज्यते। यदि वा सर्व एते शब्दाः अवयवेष्वपि वर्त्तन्ते ब्राह्मणः, क्षत्रियः, वैश्यः, शूद्र इति।

तपः श्रुतं च योनिश्‍च तत्र ब्राह्मणकारणम्।

तपःश्रुताभ्यां यो हीनो जातिब्राह्मण एव सः ॥ ५१ ॥

तथा गौरः, कपिलः, पिङ्गलकेशः इत्येतानप्यन्तरान् ब्राह्मण्ये गुणान् ब्रुवन्ति। समुदायेषु च वृत्ताः शब्दा अवयवेष्वपि वर्त्तन्ते। तद्‍यथा पूर्वे पञ्चालाः, उत्तराः कुरव इति। एवमयं समुदाये ब्राह्मणशब्दो वृत्तोऽवयवेऽपि वर्त्तते गुणे जातौ च। गुणे तावद् अब्राह्मणोऽयं यस्तिष्‍ठन् मूत्रयतीति, अब्राह्मणोऽयं गच्छन् भक्षयतीति।

अपि च कालं कल्माषं माषराशिवर्णमापणे आसीनं दृष्‍ट्वाऽध्यवस्यति नायं ब्राह्मणः, अब्राह्मणोऽयमिति निर्ज्ञातं तस्य भवति, गुणकृता चार्थस्य निवृत्तिः। अथ जातौ जातिहीने संदेहाद् दुरूपदेशाद्‍वाऽन्यो ब्राह्मणशब्दः प्रवर्त्तते। संदेहात् तावद् गौरमयं शुच्याचारं पिङ्गलं कपिलकेशं दृष्‍ट्वाऽध्यवस्यति ब्राह्मणोऽयमिति। ततः पश्‍चादुलभ्यते नायं ब्राह्मणः अब्राह्मणोऽयमिति। तत्र दुरुपदेशो ब्राह्मणशब्दो वर्त्तते। जातिकृता चार्थस्य निवृत्तिः।

ननु च —नञ्‌व्यवच्छेदाय ब्राह्मणादिशब्दप्रयोगे समासस्य पूर्वपदप्रधानता प्राप्‍नोति ?

Showing 961 to 970 of 1013 verses