'गोस्त्रियोरुपसर्जनस्य' (२.१.४८) इति ह्रस्वत्वं न प्राप्नोति।
समाहारस्यैकत्वात् द्विगुरेकवचनम् (२.४.९) इत्येतदपि वक्तव्यं भवति।
एवं तर्हि भावसाधनो भविष्यति समाहरणं समाहार इति।
अथ भावसाधनेन किमभिधीयते ?
कः पुनः पञ्चगवं, पञ्चपूलीत्यादौ गवादीनां समाहारः ?
यत् तद् आर्जनं, क्रयणं, भिक्षणम्, अपहरणम् वा।
यद्येवं विक्षिप्तेषु पूलेषु चरन्तीषु गोषु न सिध्यति।
तर्हि समभ्याशीकरणं समाहारः।
एवमपि पञ्चग्रामी, षण्णगरी इत्यादेरनुपपत्तिः।