भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 941 to 950 of 1182 verses
किं कारणम् ?

स्वरे दोषः स्यात्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरं बधित्वा समासस्यान्त उदात्त इत्यन्तरङ्गत्वादवयवसमासस्वरः प्राप्नोति।

तदाह—(वाप. ३.१४.५७)

सुसूक्ष्मजटकेशादौ समासोऽवयवे यदि।

स्यात् स्यात् तत्राऽन्तरङ्गत्वाद् बाधकोऽवयवस्वरः ॥ ४८ ॥

अतश्‍च यत्र द्वे अपि विशेषसंज्ञे तत्रोत्तरपदे नित्यमेव द्विगुर्द्वन्द्वश्‍च समासो भवति। तद् यथा— 'पञ्चगवप्रिय' इति 'छत्रोपानहप्रिय' इति। यत्र किञ्चित् सामान्यं कश्‍चिच्च विशेषः तत्र विकल्पेन। यथा— राजगवीक्षीरम्, राजगोक्षीरम् इति। यत्रैकतः सामान्यम्, अन्यतो विशेषः तत्र न भवत्येव। यथा— 'सुसूक्ष्मजटकेशेन सुनताजिनवाससा' इति। अत्र बहुव्रीहिरिति विशेषसंज्ञायामवयवयोः 'विशेषणं विशेष्येण बहुलम् (२.१.५७) इति या समाससंज्ञा सा 'सुप्‌सुपा' इति तत्पुरुषादिभेदाऽपरामर्शेन भवन्ती सामान्यसंज्ञेत्युच्येत।

ननु 'द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम् इति महावार्त्तिककारः, अयमपि च तत्पुरुष एवेति कस्मादिहापि समासो न भवति ?

उत्तरपदोपादानात्। य उत्तरपद एवाम्नायते सोऽत्र तत्पुरुषो ग्रहीतव्यः, यथा 'द्व‍यह्नजातः', 'पञ्चगवधन' इति। द्वन्द्वः पुनरनुत्तरपद एवेति बहुव्रीहिविषयेणोत्तरपदेन सर्व एव गृह्यते। किमर्थं पुनरेवमुच्यते यावता बहुलग्रहणेनैव सिद्धम्, समुदायवृत्त्याववयवानां मा कदाचिद् वृत्तिर्भूदिति।

तथापि न वक्‍तव्यम्। इह द्वौ पक्षौ (१) वृत्तिपक्षश्‍च (२) अवृत्तिपक्षश्‍च। यदा वृत्तिः तदा सर्वेषां वृत्तिः, यदा तु न वृत्तिस्तदा सर्वेषामवृत्तिरिति।

नैवम्। अस्त्यत्र विशेषः। तथाहि पञ्चगवप्रिय इत्यादौ नास्य पञ्चसंख्यामात्रं प्रियं, नापि गोमात्रम्, किं तर्हि पञ्चसंख्योपलक्षिताः काश्‍चिदेव गावः, यथा पञ्चाम्राः सप्तर्षय इति। तच्च द्विगौ पूर्वमसति दुरुपपादमेव भवति। एतेन छत्रोपानहप्रिय इत्येतदपि व्याख्यातम्, तत्रापि युगपदधिकरणवचनद्वन्द्वमन्तरेण नाभिवाञ्छितसिद्धिः। न ह्यस्योपनन्मात्रमेव प्रियम् अपितुछत्रमपि, उपानच्छब्दादेव च परः प्रियशब्दो निशम्यमानः न द्वन्द्वं विना छत्रमुपग्रहीतुं शक्नोति। तस्मादनाक्षेप इति।

Showing 941 to 950 of 1182 verses