भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 921 to 930 of 1182 verses
एवं च सापेक्षत्वादसामर्थ्ये समासः कथमिति चेत् ? गमकत्वात्। यथा— सूर्यमपि व पश्यन्तीत्यसूर्यम्पश्या राजदाराः, न पुनर्गीयन्ते अपुनर्गेयाः श्‍लोकाः, श्राद्धं न भुङ्क्ते अश्राद्धभोजी ब्राह्मणः, अशूद्रान्नभोजी, एवम् अलवणभोजी, एकान्नविंशतिः; यथा अवतप्ते नकुलस्येव स्थितमवतप्तेनकुलस्थितं तवैतदिति।

बहुव्रीहिद्वन्द्वौ द्वाभ्यां त्रिभिर्बहुभिश्‍च। यथा— चित्रगुः, कण्ठेकालः, प्लक्षन्यग्रोधौ, पाणिपादम्, पञ्चगवधनः, मत्तबहुमातङ्गम्, शङ्खदुन्दुभिवीणाः, धवखदिरपलाशम् इति। अत्र 'अनेकमन्यपदार्थे' (२.२.२४) बहुब्रीहिः, 'चार्थे द्वन्द्वः' (२.२.२९) इति च स्मृतिः। उक्तं च (मभा. २.१.१)—

सुसूक्ष्मजटकेशेन सुनताजिनवाससा।

समन्तशितिरन्ध्रेण द्वयोर्वृत्तौ न सिध्यति ॥ ४५ ॥

द्वन्द्वो यावदि्भरारब्धः प्राधान्यं तत्र तावताम्।

इतरेतरयोगे स्यात् समाहारे तु संहतेः ॥ ४६ ॥

ननु च शोभनाः सूक्ष्मा जटाः केशा अस्य, शोभनं नतमजिनं वासोऽस्य, संजातान्यन्तेषु शितिरन्ध्राण्यस्येति कर्मधारयादिगर्भा एते बहुव्रीहयः। तत्र सुसूक्ष्मजटकेशेन सुनताजिनवाससा' इत्येतयोः मध्यपदस्योत्तरपदेन पूर्वपदेन वा कर्मधारयम्, अन्त्यस्य तूत्तरपदेनैव सप्तमीतत्पुरुषं विधाय द्वयोरपि वृत्तौ बहुव्रीहिः कस्मान्न क्रियते ?

उच्यते

पूर्वयोः पूर्वपदेन कर्मधारयस्यानुपपत्तिः असमानाधिकरण्यात्; नहि द्वयोरपि विशेषणयोः सामानाधिकरण्यं भवति। उत्तरेण तु 'विशेषणं विशेष्येणे (२.१.५७)ति सामानाधिकरण्ये भवति कर्मधारयः; किन्तु न तदुत्तरकालमन्यपदार्थे विवक्षितार्थसिद्धिः। तथा हि सति सूक्ष्मजटासम्बन्धनिबन्धनमेव केशानां शोभनत्वमुपलभ्यते न तु स्वाभाविकम्, नतिनिमित्तमेव चाजिनवाससश्‍चारुत्वं गम्यते, न तु नैसर्गिकम्। अन्त्ये पुनरन्तेषु इत्येतस्य सापेक्षत्वादसामर्थ्ये सति नोत्तरपदेन सप्तमीतत्पुरुषः; अन्तेषु शितिरन्ध /?/णीति ह्युक्‍ते, कस्यान्तेष्वित्यपेक्ष्यं स्यात्, तच्च शित्यर्थ उत्पद्यमाने बहुव्रीहावेवोपन्नं भवति 'संजातान्यन्तेषु सूक्ष्मच्छिद्राण्यस्येति, न पुनस्तत्पुरुषे।

ननु च 'दृश्यते द्वयोरपि विशेषणत्वे सापेक्षत्वे च समासः। तद् यथा 'खञ्जश्‍चासौ कुब्जश्‍च खञ्जकुब्जः, भ्रातुर्भार्या भ्रातृभार्या देवदत्तस्ये—ति।

Showing 921 to 930 of 1182 verses