एवं च सापेक्षत्वादसामर्थ्ये समासः कथमिति चेत् ? गमकत्वात्। यथा— सूर्यमपि व पश्यन्तीत्यसूर्यम्पश्या राजदाराः, न पुनर्गीयन्ते अपुनर्गेयाः श्लोकाः, श्राद्धं न भुङ्क्ते अश्राद्धभोजी ब्राह्मणः, अशूद्रान्नभोजी, एवम् अलवणभोजी, एकान्नविंशतिः; यथा अवतप्ते नकुलस्येव स्थितमवतप्तेनकुलस्थितं तवैतदिति।
बहुव्रीहिद्वन्द्वौ द्वाभ्यां त्रिभिर्बहुभिश्च। यथा— चित्रगुः, कण्ठेकालः, प्लक्षन्यग्रोधौ, पाणिपादम्, पञ्चगवधनः, मत्तबहुमातङ्गम्, शङ्खदुन्दुभिवीणाः, धवखदिरपलाशम् इति। अत्र 'अनेकमन्यपदार्थे' (२.२.२४) बहुब्रीहिः, 'चार्थे द्वन्द्वः' (२.२.२९) इति च स्मृतिः। उक्तं च (मभा. २.१.१)—
सुसूक्ष्मजटकेशेन सुनताजिनवाससा।
समन्तशितिरन्ध्रेण द्वयोर्वृत्तौ न सिध्यति ॥ ४५ ॥
द्वन्द्वो यावदि्भरारब्धः प्राधान्यं तत्र तावताम्।
इतरेतरयोगे स्यात् समाहारे तु संहतेः ॥ ४६ ॥
ननु च शोभनाः सूक्ष्मा जटाः केशा अस्य, शोभनं नतमजिनं वासोऽस्य, संजातान्यन्तेषु शितिरन्ध्राण्यस्येति कर्मधारयादिगर्भा एते बहुव्रीहयः। तत्र सुसूक्ष्मजटकेशेन सुनताजिनवाससा' इत्येतयोः मध्यपदस्योत्तरपदेन पूर्वपदेन वा कर्मधारयम्, अन्त्यस्य तूत्तरपदेनैव सप्तमीतत्पुरुषं विधाय द्वयोरपि वृत्तौ बहुव्रीहिः कस्मान्न क्रियते ?
पूर्वयोः पूर्वपदेन कर्मधारयस्यानुपपत्तिः असमानाधिकरण्यात्; नहि द्वयोरपि विशेषणयोः सामानाधिकरण्यं भवति। उत्तरेण तु 'विशेषणं विशेष्येणे (२.१.५७)ति सामानाधिकरण्ये भवति कर्मधारयः; किन्तु न तदुत्तरकालमन्यपदार्थे विवक्षितार्थसिद्धिः। तथा हि सति सूक्ष्मजटासम्बन्धनिबन्धनमेव केशानां शोभनत्वमुपलभ्यते न तु स्वाभाविकम्, नतिनिमित्तमेव चाजिनवाससश्चारुत्वं गम्यते, न तु नैसर्गिकम्। अन्त्ये पुनरन्तेषु इत्येतस्य सापेक्षत्वादसामर्थ्ये सति नोत्तरपदेन सप्तमीतत्पुरुषः; अन्तेषु शितिरन्ध /?/णीति ह्युक्ते, कस्यान्तेष्वित्यपेक्ष्यं स्यात्, तच्च शित्यर्थ उत्पद्यमाने बहुव्रीहावेवोपन्नं भवति 'संजातान्यन्तेषु सूक्ष्मच्छिद्राण्यस्येति, न पुनस्तत्पुरुषे।
ननु च 'दृश्यते द्वयोरपि विशेषणत्वे सापेक्षत्वे च समासः। तद् यथा 'खञ्जश्चासौ कुब्जश्च खञ्जकुब्जः, भ्रातुर्भार्या भ्रातृभार्या देवदत्तस्ये—ति।