ननु च 'गोः क्षीरं गोक्षीरम्, राज्ञो गोक्षीरं राजगोक्षीरमिति द्वितीयपक्षे भविष्यति। नैवम्। अर्थभेदात्। यथैवायं गवि यतते, न महिष्यादेः क्षीरमात्रेण तुष्यति, एवं राजन्यपि यतते 'राज्ञो या गौः, तस्या यत् क्षीरमिति तच्चैवं न सिध्यति। एवं हि यतः कुतश्चिदागतं गोक्षीरमात्रं राज्ञः सम्बन्धि प्रतीयते।
कथं पुनर्गोः क्षीरमप्यपेक्षमाणायाश्च राज्ञा राजानमप्यपेक्षमाणायाश्च क्षीरेण समासः (मभा. २.१.१ वा.)?
उच्यते— न गौः प्रधानत्वात् तथा राजनमपेक्षते यथा उपसर्जनत्वेन गां राजा, क्षीरमप्यविचलितस्वार्थत्वादनौत्सुक्येन न तथा गामपेक्षते यथोद्भूतसम्बन्धव्यतिरे— कत्वादौत्सुक्येन गौः क्षीरम्।
एवं चानुकूल्ये गमकत्वात् प्रधानसापेक्षत्वे सति समासो भवत्येव। यथा देवदत्तगुरुकुलम्, राजपुरुषभार्य्या इति। तदुक्तम्—'भवति वै प्रधानस्य सापेक्षस्यापि समास' इति (मभा. २.१.१)।
एवं द्वे अहनी समाहृते द्व्यहः। द्व्यहो जातस्येति यदा समासस्तदा द्वाभ्याम्, यदा तु द्वे अहनी जातस्य द्वयहजात इति तदा त्रिभिः। 'सुप् सुपा (२.१.४) इति वचनाद् द्वयोरेव समास इति चेत्, न, 'कालाः परिमाणिना (२.२.५) इति बहुवचननिर्द्देशात् 'सुप् सुपा' इत्येतस्मिन् गुणपदेऽपि संख्या न विवक्ष्यते; तेन त्रिष्वपि पदेषु समासाभ्यनुज्ञाने, द्विशब्दस्यापि कालसंख्यायकत्वेन कालाभिधायित्वे द्वे अहनी जातस्येति विगृह्य जातेन परिमाणिना द्विशब्दाहःशब्दौ कालाभिधायिनौ समस्येते। पूर्वस्य पदस्योत्तरपद— निमित्तायास्तत्पुरुषसंज्ञायाः प्रवर्त्तनात् 'न संख्यादेः समाहारे' (५.४.८९) इति प्रतिषेधाभावात् 'अह्लोऽह्न एतेभ्यः' (५.४.८८) इति समासान्तसिद्धौ द्वयह्नजात इति विवक्षितरूपसिद्धिः।
अथ राजगोक्षीरमित्यत्रापि कथं न समासान्तः ?
गोशब्दस्य युगपत् पूर्वोत्तरपदापेक्षायामसामर्थ्यात्।
द्वयह्नजात इत्यत्रापि तुल्यमिति चेत्ब।
तन्न 'उत्तरपदयोग एव द्विगोराम्नानात्।
अपि च 'द्वे अहनी' इति द्वे अपि प्रथमान्ते, राज्ञो गोरिति द्वे अपि षष्ठ्यन्ते। अस्ति च प्रथमान्तषष्ठ्यन्तयोर्विशेषः। प्रथमान्तं ह्यनुपजातव्यतिरेकत्वान्निरौत्सुक्यं नान्यदपेक्षते; षष्ठ्यन्तं पुनरुद्भूतव्यतिरेकत्वात् परोपकारायौत्सुक्येन प्रवर्त्तमानं नानवाप्योकार्यं विरमति।