कथं पुनः कारकाणां समास इत्युपपन्नं भवति ? तेषां हि क्रिययैवाभिसंबन्धः। न च क्रियावाचिनः सुबन्तत्वमस्ति; सुबन्तयोरेवान्तर्भूतक्रियाविशेषयोर्भविष्यतीति चेत्, नैवम्, द्रव्याणां क्रियोपजनितः सम्बन्धः शेषविषयो भवति, न कारकविषयः। स्वभावसिद्धं हि द्रव्यं सिद्धवदभिधीयमानं द्रव्यान्तरं प्रति आत्मप्रतिलम्भे निराकाङ्क्षं, न कर्मादिभावं भजते। न च समासप्रकरणे कारकाणि समस्यन्त इति वचनमस्ति।
उच्यते— मा भूद् वचनम्, अर्थंतस्तु गम्यते, यदाह 'द्वितीया श्रिता'—दिभिः समस्यते कष्टं श्रितः कष्टश्रित इति। तत्र श्रित इत्युपात्तक्रियाविशेषपरिच्छिन्नः कर्त्ता, अभ्यन्तरीकृत—साध्यसाधन—संबन्ध—क्रियान्तरसम्बन्धार्हः स्वाश्रयविषयासु बाह्यासु क्रियासु शक्त्यन्तरैरपि विरूद्धैकार्थसमवायः कष्टादीन्युपसर्जनीभूतया श्रयतिक्रिययाऽपेक्षते। ततश्च श्रयतिक्रियया संबन्धात् कष्टे कर्मत्वमिति श्रयणक्रियापूर्वकः कष्टश्रितयोरभिसंबन्धो भवति। तस्मिन् स्ववृत्त्यवयवार्थशक्त्य— नुगृहीतेऽर्थान्तरे प्रादुर्भूते तदभिधायी शब्दः समाससंज्ञां लभते। एवं 'वृकाद् भीतो वृकभीत' इत्यत्रापि 'पञ्चमी भयेन' (२.१.३७) इति वृकस्य भये 'भीत्रार्थानां भयहेतुः' (१.४.२५) इत्यपादानत्वात् सति सामर्थ्ये, अभ्यन्तरीकृतक्रियाकारकसंबन्धः समुदायः समाससंज्ञां लभते।
ननु च, न वृकस्य भीतं प्रति अपादानत्वम्, अपितु भयं भीतिः इत्येतानि।
उच्यते— यथा मासो जातस्येति मासाख्यः क्रियाकलापः प्रथमकुक्षिगर्भ— वियोगाख्यस्य जन्मनोऽवधिभावेन परिच्छेदको भवति, जन्म प्रतिलब्धां वा सत्तां समावृत्त्या परिमितेन जातमपेक्षते तथेहापि वृकादित्ययमपादानशब्दो भयमात्रस्यैवा— वच्छेदको भविष्यति, न भीतस्य।
यदि वा यथा कष्टश्रित इत्यत्रोपात्त—श्रयति—क्रियासंबन्धात् कष्टे कर्मत्वमिति श्रयणक्रियापूर्वकं कष्टेन संबध्यते, तथेहाप्युपात्तभयक्रियावच्छिन्नः कर्त्ता भयक्रिया— संबन्धाद् वृकस्यापादानत्वमिति भयक्रियापूर्वकं वृकेन संभन्त्स्यत इति।
भवतु यत्रोपसर्जनीभूताया अपि क्रियायाः श्रवणं, यत्र तु क्रिया न श्रूयते तत्र कथं शङ्कुलाखण्ड इति?
प्रतीयमाना भविष्यति। तथाहि श्ङ्कुलाखण्ड इत्युक्ते कृत इति प्रतीयते। तदेतद् द्योतयतन्नाह 'तृतीया तत्कृतेन१ गुणवचनेन' (२.१.३०) इति।
न्यासासिद्धत्वाद् वचनानर्थक्यमिति चेत्, न, वचनस्य नियमार्थत्वात्—'यत्रैव कृत इत्यादि गम्यते तत्रैव समासः, अन्यत्र मा भूदि'ति।
एवं च गम्यमान—करोतिक्रियोपगृहीतकरणकर्तृकं तृतीयान्तेन शङ्कुलादिना खण्डादीनां गुणमुक्तवतां मतुब्लोपादिना द्रव्यवचनानां तृतीयान्तार्थकृतत्वे सति सामर्थ्यमवसीयते, न तूक्तवैपरीत्ये, यथा आक्ष्णा काणः, पादेन खञ्जः इति। तदेवमाक्षिप्त करोतिक्रियाऽवच्छिन्नः क्रियान्तरसम्बन्धार्हः खण्डशब्दार्थो गम्यमानोपसर्जनीभूतया करोतिक्रियया शङ्कुलादीनपेक्षमाणः करणभूतैः कर्त्तृभूतैर्वा शङ्कुलादिभिः सम्बध्यते। तद्वचनश्च समुदायोऽभ्यन्तरीभूतक्रियाकारकसंबन्धः समाससंज्ञो भवति।
अथेह कस्मान्न भवति 'दध्ना पटुः' 'घृतेन पटुः' इति?