न तर्हीदानीमिदं भवति मासजातस्येति।
बाह्यं सम्बन्धिनमपेक्ष्य भविष्यति।
ननु च 'कालाः परिमाणिना' (२.२.५) इत्यनेनायं समासः। न च जातस्य मासः परिमाणम्, अपितु त्रिंशदरा्त्रस्य, यथा द्रोणो बदराणां दवदत्तस्येति न देवदत्तस्य द्रोणः परिमाणम्, अपितु बदराणाम्। तदाह 'कालस्य येन समासस्तस्यापरिमाणित्वादनिर्देश' (मभा. २.२.५ वा—१) इति।
किं पुनर्भवान् कालं मन्यते ?
येन मूर्त्तीनामुपचया अपचयाश्च लक्ष्यन्ते।
तस्यैव तर्हि कयाचित् क्रियया युक्तस्याहरिति (नाम) भवति, रात्रिरिति च।
आदित्यगत्या। तयैवासकृदावृत्तया मास इति च भवति, संवत्सर इति च भवति। यद्येवं भवति जातस्य मासः परिमाणम्, किं नु मासौ जातस्येतिवत् मासो जातस्य, मासा जातस्येति प्राप्नोति।
नैवम्। मासजात इत्युक्ते द्वित्वादिसंख्याविशेषस्यानुपलम्भात्। यत्र तूपलब्धे— र्निमित्तमस्ति तत्र भवत्येव, यथा—द्वौ मासौ जातस्य द्विमासजातः, एवं त्रिमासजात इति।