यद्येवम्, 'इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च' (२.१.४) इति न वक्तव्यम्, 'वाससी इव, कन्ये इव' इत्यादिप्रयोगाणाम्, उपमानानि सामान्यवचनैरित्यनेनैव सिद्धेः, विभक्त्यलोपमात्रं पुनरलुक्प्रकरणे वक्तव्यं भवति।
उच्यते नायामिवशब्दः सामान्यवाची, अपि तु सामान्यद्योतकः। तद्यथा—नेत्रे नीलोत्पले इत्युक्ते तदाकार—कान्त्यादयः प्रतीयन्ते। शस्त्रीशयामेत्यादिषु साक्षात् सामान्यवचनः श्यामाशब्दः प्रयुज्यते।
अथ अवतप्तेनकुलस्थितामित्यत्र कथम्?
न ह्ययमुपमायाम्, अपितु क्षेपे। उपमानेनाऽत्र क्षेपो गम्यते—अवतप्ते नकुलस्येव स्थितं तवैतच्चापलमिति यथाऽवतप्ते नकुलश्चिरस्थाता न भवति तद्वत् कार्थमारभ्य यंशिचरं तत्र नावतिष्ठते स एवमुच्यते 'अवतप्ते—नकुल—स्थितं तवैतदिति।
एतेन कूपमण्डूक इत्यपि व्याख्यातम्। यथा कूपमण्डूकः कूपाद् बहिरनिःसरन् न देशान्तरव्यवहारवेदी, स एवमेवमुच्यते कूपमण्डूकोऽयमिति।
१. त्रिविष्टब्धकं त्रिदण्डमिति राघवाचार्यः।
अथ राजवल्लभेत्यादयः कथं षष्ठीसमासाः? यतो राजवल्लभेत्ययं बहुव्रीहिः कस्मान्न भवति राजा वल्लभोऽस्या इति?
अचेतनत्वेन वलभ्या वाल्लभ्यायोगात्। राज्ञस्तु वल्लभेति भवति। तत्र राजा निर्ज्ञातस्यार्थः, स्वभावतः सामान्यात् प्रच्युतः, सामान्ये व्यवस्थितस्योपकर्त्तुमशक्तेः, सम्बन्धिसामान्यापेक्षः संबन्धिविशेषापेक्षो वा, सम्बन्ध्यन्तरस्य व्यवच्छेदार्थं प्रवृत्तेः, उभयाधिष्ठानत्वे सत्यपि संबन्धस्य परार्थमुपादानादुद्भूतसंन्धप्रवृत्ति, उपजात— प्रतिपादिकार्थव्यतिरेकः, आत्मनि सम्बन्धोपभोगात् प्रधानेऽप्युपयुजयमानसम्बन्धषष्ठ्यन्त उपादीयते। प्रधानानि चानिर्ज्ञातार्थानि प्रथमयैव विभक्त्या युज्यन्ते। तद्यथा— क्व पुनरिदं पठितम्, भ्राजा नाम श्लोका (मभा. पृ. ३कील्हार्न)। ततश्च वल्लभा— शब्दोऽनिर्ज्ञातार्थत्वात्मव्यपदेशाय स्वार्थविशेषे नियम्यमान उपरतौत्सुक्य औदासीन्येन प्रवर्त्तते। तत्र भेदाधिष्ठानस्य सम्बन्धस्य वाचिका षष्ठी, पदान्तराभिधेये सम्बन्धिन्याकाङ्क्षावाता गुणपदेन विशेष्यमाणा गुणपदस्था श्रूयते, विशेषविषयत्वात् समासस्य। गुणाश्च स्वार्थेपसर्जनप्रधानार्थेपपादिनो भेदे निवर्त्तमाने भेदाधिष्ठानं सम्बन्धमभ्यन्तरीकृत्य प्रवर्त्तन्ते। तत्र राजवल्लभेति सम्बन्धे प्रातिपदिकार्थतामापाद्यमाने तद्विषया षष्ठी, स्वभावतो निवृत्ता कार्यार्थं सामान्येन प्रसक्ता 'सुपो धातुप्रातिपदिकयोः' (२.४.७१) इति शास्त्राद् विनिवर्त्तमाने वान्वाख्यायते।
अथ 'वरप्रदेया कन्ये'—ति कोऽयं समासः?
षष्ठीतत्पुरूष एव यथा देवदेयं पुष्पम्, ब्राह्मणदेयं धनम् इति।