अथेह कथं कृष्णपिङ्गल इति?
यो ह्यस्य कृष्णो भागः न स पिङ्गलः, यस्तु पिङ्गलः स न कृष्ण इति।
समुदायेषु वृत्ताः शब्दा अवयवेषु वर्त्तन्ते, यथा पूर्वे पाञ्चालाः, 'उत्तरा कुरव' इति। यदि वा कृष्णावयवयोगात् स एव कृष्णः, पिङ्गलावयवयोगात् स पिङ्गल इत्युपपद्यते सामानाधिकरण्यम्।
अथ ईषदित्यनेन किं विशेष्यम्?
कथं पुनरव्ययानामसत्त्ववचनत्वे सत्त्वभूतार्थविशेषणत्वं भवति?
कडारेण गुणेन योगः। यदि वाऽव्ययानां केषाञ्चित् सत्त्वगन्धित्वेन शक्तियोगादिः सत्त्वधर्मो दृश्यते। तद्यथा दोषामन्यम् अहः, दिवामन्या रात्रिः (मभा. १.१.४१)।