युद्धग्रहणादेरन्यत्रापि प्रयोगात्। हस्ते हस्ते च गृहीत्वा मित्राय पुत्रं समर्पयति हस्ताहस्ति, गालिभिश्च गालिभिश्च निर्भर्त्स्य प्रवृत्तः परिहासो गालागालि इति ॥
ननु चान्यपदार्थे बहुव्रीहिरित्युच्यमाने—
विस्पष्टपटुर्वटुः, (६.२.२४), पुनरुत्स्यूतं वासः, परश्शताः शरद' (सक. ३.२.५५) इति सामान्यसमासानां;
स्वयंधौतौ पादौ (२.१.२५), सामिभुक्तमन्नम् (सक. ३.२.५५), श्रेणीकृताः पत्तयः (सक. ३.२.५५) इति विशेषसमासानाम्;
विनिकृत्तप्ररूढो वृक्षः (२.१.४९), कृष्णपिङ्गलो ग्रावा, ईषत्कडारोऽश्मेति विशेषणसमासानाम्;
अवकोकिलं वनम् {२.२.१८(३)}, पर्यध्ययनश्छात्र {२.२.१८(४)}, निष्कौशाम्बिः सार्थः {२.२.१८(५)} इति प्रादिसमासानाम्;
शस्त्रीश्यामा देवदत्ता, अवतप्तेनकुलस्थितं तवैतत्, कूपमण्डूको माणवक इति उपमानसमासानाम्;
राजवल्लभा वलभी, वरप्रदेया कन्या (स.क. ३.२.४७), मासे जातोऽस्येति (२.२.५) षष्ठीसमासानाम्;
कष्टश्रितो रिपुः (२.१.२४), वृकभीतो न्यङ्कुः (२.१.३७), शङ्कुलाखण्डः (२.१.३०), पोगण्ड इति कारकसमासानाम् (श्रृ.प्र. ८);