केचिदाहुः — इतिशब्दस्य प्रकारवाचकत्वादित्थमिति, केचित् पुनः इदमित्थमिति। तत्र पूर्वस्मिन् पक्षेऽसत्त्वरूपता, इतिशब्दस्यासत्त्ववाचित्वात्। उत्तरस्मिन् सत्त्वरूपता, इदमिति सर्वनाम्ना वस्तुरूपपरामर्शात्।
योऽसौ तत्रेत्यधिकरणे तेनेति करणे वा इदमर्थानुयायिनी इतिकर्त्तव्यतारूपा क्रिया, 'तत्र गृहीत्वा', 'तेन प्रहृत्य' इत्यादिकः सर्वनामार्थो यत्तदिति, तदिति व्यपदेशार्थग्रहण— प्रहरणादिकायाः क्रियायाः साध्यं युद्धादि।
तदाह चन्द्रगोमी 'तत्र गृहीत्वा तेन प्रहृत्य युद्धे सरूपम्, सुप्सुपैकार्थं भवति' (चान्द्रव्या. २.२.४७, २.२.१) इति।
१. अत्र 'शलकापरि, चतुष्परि, अक्षपरीति द्यूतपरिभाषाः। ततश्चोत्तरार्धे नलादेरित्येव युज्यते पठितुम् न तु 'तलादे' रिति। तत एव उत्तरार्धमस्पष्टमिति राघवाचार्यः। न च 'पाण्डुलेखो न परिवर्त्तनीय' इति मर्यादाया नलपाठे नास्ति रक्षेति राघवार्यैरपि न रक्षिता सा 'सर्वत्र' पाठान्तरं पश्यद्भिरेभिरारम्भत एव स्वैरं पठितान्यथामूलपाठत्वस्य दृष्टचरत्वात्। नस्य तत्वेनावबोधो लिपिभ्रम एव।
'सरूप' इत्येकशेषापवादने द्वयोरधिकरणयोः करणयोश्च तुल्यकालनिर्देशात्। तर्हि द्वयोस्तुल्यबलयोः प्रतियोगिनोर्व्यापारमन्तरेण द्वयोरधिकरणयोः करणयोर्वा तुल्यकालनिर्देशो भवति, तथापि युद्धादिनियमो (न) लभ्यते।