भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 831 to 840 of 1182 verses
(१) के दृशे विश्‍वाय सूर्यम्, विख्ये त्वा हरामि, (२) से वक्षे रायः, (३) सेन् ता वामेषे रथानाम्, (४) असे क्रत्वे दक्षाय जीवसे। (५) असेन् इह क्षयाय जीवसे, (६) क्सेप्रेषे भगाय, श्रियसे, (७) कसेनप्येवंरूपः, स्वरे विशेषः, (८) अध्यैकाममुपाचरध्यै, (९) अध्यैनप्येवंरूपः, स्वरे विशेषः, (१०) कध्यै इन्द्राग्नी आहुवध्यै, (११) कध्यैन्—श्रियध्यै, (१२) शध्यै पिबध्यै, (१३)शध्यैन् सह मादयध यै, (१४) तवेङ् दशमे मासि सूतवे, (१५) तवेन् सोममिन्द्राय पातवे सुवर्देवेणु गन्तवे, कर्त्तवे, हर्त्तवे, (१६) कै प्रयै देवेभ्यः, (१७) इष्यै अपामोषधीनां रोहिष्यै, अव्यथिष्यै रोहणाय चाऽव्यथनाय चेत्यर्थः।

(२१) तुमर्थ एव 'शकि णमुल्कमुलौ' (३.४.१२) अग्निं देवा विभाजं नाशक्नुवन् अपलुपं नाशक्नुवन्।

(२२—२३) ईश्‍वरे तोसुन्कसुनौ (३.४.१३)— ईश्‍वरोऽभिचरितोः, ईश्‍वरो विलिखः, ईश्‍वरो वितृदः। तोसुन्कसुनौ भावलक्षणे च।

तत्र 'स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् (३.४.१६), सृपितृदोः कसुन्' (४.३.१७)। यथा— आसंस्थातोर्वेद्यां सीदन्ति, पुरा सूर्यस्योदेतोराधेयः, पुरा वत्सानामपाकर्त्तो, पुरा प्रवदितोरग्नौ होतव्यम्, पुरा प्रचरितोराग्नीध्रे होतव्यम्, आहोतोरप्रमत्तस्तिष्ठति, आतमितोरुपतिष्ठन्ते, आविजनितोः संभवाम, पुरा क्रूरस्य विसृपः, पुरा जत्रुभ्य आतृदः।

(२) तद्धितेष्वसर्वविभक्तिषु (पा. १.१.३८ मभा., ५.३.१४६, ७.२.१०४, १०५, ५. ४.४२, ४३, ४४, १.३.३८) तसिलादयः प्राक् पाशपः, शस्प्रभृतयः प्राक् समासान्तेभ्यः, मान्तः, कृत्वोऽर्थाः, तसिवती, नानाञौ इति।

यथा — यतः, तत्र, इह, क्व, एकदा, एतर्हि, अधुना, इदानीम्, सद्यः, परुत्, परारि, ऐषमः, अद्य, परेद्यवि, पूर्वेद्युः, उभयेद्युः, सर्वथा, इत्थम्, पुरस्तात्, प्राक्, अधः, उपरि, उपरिष्टात्, पुरः, पश्‍चात्, दक्षिणात्, दक्षिणा, दक्षिणाहि, दक्षिणेन, दक्षिणतः, द्विधा, द्वेधा, द्वैधम्, एकध्यम्, बहुशो देहि, वासुदेवतः प्रति, शुक्लीभवति, अग्निसात् संपद्यते, देवत्रागच्छति पटपटाकरोति, पचतितराम्, बहुकृत्वो भुङ्क्ते, द्विर्भुङ्क्ते, सकृद् भुङ्क्ते, बहुधा भुङ्क्ते, आदितो भवति, ब्राह्मणवद् ब्रवीति, विना देवदत्तम्, नाना देवदत्तात्। (४९)

(३) अव्ययीभावो द्विधा (१) सत्त्वभूतार्थः,

(२) असत्त्वभूतार्थश्‍चे—ति। तयोः —

सत्त्वभूतार्थो यथा— उपकुम्भम्, सुमद्रम्, दुर्यवनम्, निर्मक्षिकम्, निःशीतम्, सब्रह्म, बहिर्ग्रामम्, सूपप्रति, मध्येसमुद्रम्, द्विमुनि, पञ्चनदम्, लोहितगङ्गम्' इति।

असत्त्वभूतार्थो यथा— अधिस्त्रि, प्रत्युरसम्, अनुरथम्, प्रत्यर्थम्, यथाशक्ति, सचक्रम्, यावदमत्रम्, परित्रिगर्त्तम्, आपाटलिपुत्रम्, अभ्यग्नि, द्विपरि, 'अनुगङ्गं वारणसी' ति।

Showing 831 to 840 of 1182 verses