३. अव्ययीभावश्च (१.१.४१) इति पठ्यते। तत्र —
(१)'आम्, क्त्वा, ल्यप्, तुमुन्, णमु्ल्, खमुञ्' इति कृतः षड् भाषायाम्।
ते तु कृतः 'क्रियारूपाः, क्रियाफलरूपाः, क्रियाविशेषणरूपाः, क्रियावधिरूपाः, क्रियाकर्मरूपाः, क्रियावयवरूपाश्च' भवन्ति। तेषु—
१. क्रियारूपा यथा— चकासाञ्चकार, कारयामास, बिभराम्बभूव, विदाङ्कुर्वन्तु, अलंकृत्वा, खलु कृत्वा, अलमालप्य, खल्वालप्य, अलं भोक्तुम्, 'कालो भोक्तुम्, श्रोतुं श्रोत्रम्, द्रष्टुं चक्षुः' इति।
२. क्रियाफलरूपा यथा— भोक्तुं व्रजति, पक्तुमपतिष्ठते, भोक्तुं भुङ्क्ते पक्तुं पचति, भोक्तुं ग्लायति, भोक्तुं घटते, भोक्तुं क्षमते, भोक्तुं सहते, भोक्तुमस्ति, भोक्तुं विद्यते, भोक्तुमीष्टे, भोक्तुं प्रभवति' इति।
३. क्रियाविशेषणरूपा यथा— इत्थङ्कारम्, अन्यथाकारम्, यथाकारमृ, तथाकारम्, उच्चैःकारम्, नीचैःकारम्, तिर्यक्कारम्, मुखतःकारम्, नानाभावम्, द्विधाभावम्, तूष्णींभावम्, अन्वग्भावम्' इति।
भुक्त्या व्रजति, अपमित्य याचते, अग्रेभोजं व्रजति, द्व्यहात्यासं गाः पाययति, द्व्यङ्गुलोत्कर्षं खण्डिकाश्छिनत्ति, शय्योत्थायं राजद्वारमेति, कन्यादर्शं वरयति, ब्राह्मणवेदं भोजयति, यावज्जीवमधीते, चर्मपूरं स्तृणाति, गोष्पदपूरं वृष्टो देवः, चेलक्नोपं वृष्टो देव' इति।
शक्नोति भोक्तुम्, धृष्णोति भोक्तुम्, जानाति भोक्तुम्, आरभते भोक्तुम्, पारयति भोक्तुम्, प्रक्रमते भोक्तुम्, लभते भोक्तुम्, अर्हीत भोक्तुम्, इच्छति भोक्तुम्, कामयतेभोक्तुम्, एषितुमिच्छति, कमितुं कामयते' इति।