सुबन्ततिङन्तानुकारीणि विभक्तिप्रतिरूपाणि चेति।
तानि प्रत्येकं षोढा। यथा— १. प्रकृत्यर्थानि, २. प्रत्ययार्थानि, ३. उभयार्थानि, ४. अनुभयार्थानि, ५. प्रकृत्यन्तरार्थानि, ६. प्रत्ययान्तरार्थानि चेति। तेषु —
(१) सुबन्तानुकारीणि विभक्तिप्रतिरूपाणि चेति —
प्रकृत्यर्थानि यथा— उच्चैः, नीचैः, चिराय, विहायसेति।
प्रत्ययार्थानि यथा— आरात्, अकस्मात्, एकपदे, प्रगे इति।
उभयार्थानि यथा— अहं शुभं पारे मध्ये इति।
अनुभयार्थानि यथा— ऋते दिष्ट्या साक्षात् अह्नाय इति।
प्रकृत्यन्तरार्थानि यथा— कृतं दिवा दोषा अन्तरेणेति।
प्रत्ययान्तरार्थानि यथा— सायं स्वयं चिरस्य परस्परस्येति।
(२) तिङन्तानुकारीणि (विभक्तिप्रतिरूपाणि) —