उपसर्गसंज्ञाबाधनात् षत्वं न भवति। इत्युपाती द्वयर्थौ।
आङ् मर्यादावचने पञ्चमीमुत्पादयति—'आ पाटलिपुत्राद् वृष्टो देवः।'
वचनग्रहणादभि— विधिरपि गृह्यते। तत्रापीदमेवोदाहरणम्।
अपो वर्जने पञ्चमीमुत्पादयति। 'अप त्रिगर्त्तेभ्यो वृष्टो देवः'।
सुः पूजायामुपसर्गसंज्ञांबाधते। 'सुस्तुतं भवता', 'सुसिक्तं भवता' इति षत्वं न भवती' ति। इत्याङपसव एकार्था इति ॥
(६. अव्ययप्रतिपदिकेषु विभक्तिप्रतिरूपाणि)