भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 781 to 790 of 1013 verses
नैष दोषः। समुदायेषु वृत्ताः शब्दा अवयवेष्वपि वर्त्तन्ते। तद्‍यथा पूर्वे पञ्चालाः, उत्तराः कुरवः {मभा. २.२.२४(२५)},

अथ द्वौ द्रोणावर्धाढकं च कर्त्तव्यमर्धतृतीयद्रोणा इति।

न कर्त्तव्यम्।

समुदाये शब्दाः प्रवृत्ताः तेष्ववयवेषु वर्त्तन्ते, योऽवयवस्तं समुदायं न व्यभिचरति (मभा. २.२.२४), यथा द्रोणार्धं द्रोणम्। आढकार्धमाढकमिति।

यद्यर्धं तृतीयमनयोरिति विग्रहः क्रियते तो दोषः स्यात् ? षष्ठ्यर्थो नोपपद्यते।

किं हि द्वयोस्तृतीयमर्धं भवति ? भवानपि पृष्टो व्याचष्टाम्।

अथेह देवदत्तस्य भ्रातेति कः सम्बन्धार्थः ?

एकस्मात् प्रादुर्भाव इति चेत्, वार्त्तं तत, तद्‍यथा आर्थिकानामेकप्रतिश्रयद्विजानां प्रातरुत्थाय विप्रतिष्ठमानानां न कश्‍चित् परस्परमभिसम्बन्धो भवति एवंजातीयं भ्रातृत्वं नाम, तत्र चेद् युक्‍तः षष्ठ्यर्थो दृश्यते इहापि युक्‍तो दृश्‍यताम्। द्वयोर्ह्यनुजन्मा तृतीयो भवति। दृश्‍यते चान्यत्रापि द्वयोस्तृतीयेन संबन्धः। तद्‍यथा— (रघुवंशे ६.२९)

निसर्गभिन्नास्पदमेकसंस्थमस्मिन् द्वयं श्रीश्‍च सरस्वती च।

कान्त्या गिरा सूनृतया च योग्या त्वमेव कल्याणि ! तयोस्तृतीया ॥ ५४ ॥

Showing 781 to 790 of 1013 verses