तत्र विशेष्यरूपं यथा— पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्रः, पूजितोऽश्वः अश्वकुञ्जरः, गर्भिणी गौर्गोगर्भिणी, स्तोकोऽग्निरग्निस्तोकः, कायस्य पूर्वं पूर्वकायः, अर्धं पिप्पल्या अर्धपिप्पली इति।
विशेषणरूपं यथा— राज्ञः पुरुषो राजपुरुषः, दन्तानां राजा राजदन्तः, कष्टं श्रितः कष्टश्रितः, जीविकामापन्न आपन्नजीविकः, नीलमुत्पलं नीलोत्पलम्, उत्तमः पुरुषः पुरुषोत्तम इति।
(३. तुल्यरूपम्) तुल्यरूपं यथा— शस्त्रीव श्यामा शस्त्रीश्यामा, खञ्जश्चासौ कुब्जश्चेति खञ्जकुब्जः, निर्गतः कौशाम्ब्या निष्कौशाम्बिः, चित्रा गावोऽस्य चित्रगुः, अर्धं तृतीयमेषाम् अर्धतृतीयाः (मभा.२.२.२४(वा.२२)), के सब्रह्मचारिणोऽस्य 'किंसब्रह्मचारी' (मभा.२.२.२४ (वा. २२)) इति।
ननु च अर्धं तृतीयमेषामिति अन्यपदार्थो नोपपद्यते, स हि तत्र स्यात्, यत्र येषां पदानां समासः ततोऽन्यस्य पदस्यार्थो भवति।
नैष दोषः। अवयवेन विग्रहः समुदायः समासार्थः।
नन्वेवं सति, 'असि—द्वितीयोऽनुससार पाण्डवम्' (मभा.), 'संकर्षणद्वितीयस्य बलं कृष्णस्य वर्धतामि'—त्यादिषु द्वयोर्द्विवचनमिति द्विवचनं प्राप्नोति।
नैवम्। असिर्द्वितीयो यस्येत्यन्यपदार्थेनैक एवोच्यते। यथा—'जनार्दनस्त्वात्मचतुर्थ एव' {६.३.५ (२) मभा.} इति। यदि वा द्वितीयशब्दोऽयमस्ति तृतीयान्तः संख्यापूरणः। अस्ति चाव्युत्पन्नः सहायवाची, तस्येह ग्रहणम् असिद्वितीयोऽसिसहाय इत्यर्थः।
आत्मचतुर्थ इति कोऽयं समासः ?
नन्वन्यपदार्थ 'आत्मा चतुर्थः अस्ये'—ति। आत्मना चतुर्थ इति तत्पुरुषः कस्मान्न भवति ? 'आत्मनः पूरणे' (६.३.६) इति तृतीयाया अलुक्प्रसङ्गात्।