भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 751 to 760 of 1013 verses
(प्रत्ययरूपा)— सर्वैकान्यकिंयत्तदः काले दा' (५.३.१५), इदमोर्हिल् (५.३.१६), प्रकारवचने थाल् (५.३.२३), था हे तौ च च्छन्दसि (५.३.२६), 'इदमस्थमुः' (५.३.२४), 'किमश्‍च' (५.३.२५) इति। यथा— सर्वदा, एतर्हि, सर्वथा प्रकथा, इत्थं, कथम् इति।

२. अविभक्तिकार्यपि त्रिथा —

१. शब्देक्ता २. अर्थोक्‍ता ३. प्रयोगोक्‍ता च। तासु —

शब्दोक्ता यथा— सप्तमीपञ्चमीप्रथमाभ्योऽस्तातिः (५.३.२७), देवमनुष्यपुरुष— पुरु—मर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् (५.४. ५६), इति। यथा— पुरस्ताद् वसति (५.३.२७, ५.४.५६ काशिका), पुरस्तादागतः, पुरस्ताद् रमणीयम्, देवत्रा गच्छति, मनुष्यत्रा वसति, पुरुषत्राऽभिनिविशते इति।

अर्थोक्ता 'बह्वल्पार्थाच्छस्‌कारकादन्यतरस्याम्' (५.४.४२), संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् (५.४.१७) इति। यथा— बहु देहि बहुशो देहि, द्वौ द्वौ देहि द्विशो देहि, द्वाभ्यां द्वाभ्यां देहि द्विशो देहि, माषं माषं देहि माषशो देहि, पञ्च वारान् देहि पञ्चकृत्वो देहि इति।

प्रयोगोक्ता—'तेन तुल्यं क्रिया चेद् वतिः' (५.१.११५), 'तत्र तस्येव' (५.१.११६) इति। यथा— अग्‍निना तुल्यमयं वर्त्तते अग्‍निवत्, दैवमिव भवन्तं पश्‍यामि देववत्, ब्राह्मणेन तुल्यमस्मै दीयते ब्राह्मणवत्, व्याघ्रेण तुल्यमस्माद् बिभेति व्याघ्रवत्, मथुरायामिव पाटलिपुत्रे प्रासादाः मधुरावत्, श्रोत्रियस्येवास्य शुक्‍ला दन्ताः श्रोत्रियवत्। तद्धितविभक्तिरिति वक्‍तव्ये अव्ययग्रहणम्। अधिस्त्रि, प्रत्युरसम्, पारेगङ्गम्, पुरा, स्वयं, साक्षात्, इत्येवमादीनामुप— संग्रहणार्थमिति ॥

(७. उपसर्जनम्)

प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३), 'एकविभक्ति चापूर्वनिपाते' (१.२.४४)।

तत् त्रिधा — १. विशेष्यरूपम्, २. विशेषणरूपम्, ३. तुल्यरूपं च।

(१. विशेष्यरूपम्)

Showing 751 to 760 of 1013 verses