भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 751 to 760 of 1182 verses
लक्षणेत्थम्भूताख्यान—भाग—वीप्सा—प्रतिनिधि—प्रतिदानेषु प्रतिः। स चतुर्षु द्वितीयां, द्वयोः पञ्चमीमुत्पादयति। यथा— 'वृक्षं प्रति विद्योतते, साधुर्देवदत्तो मातरं प्रति, यदत्र मां प्रति स्यात्, वृक्षं वृक्षं प्रति सेकः, अभिमन्युरर्जुनतः प्रति, माषानस्मै तिलेभ्यः प्रति प्रयच्छति।

(३. परिः)

लक्षणेत्थंभूताख्यानभागवीप्सावर्जनानर्थक्येषु परिः। सोऽपि चतुर्ष्षु द्वितीयां द्वयोः पञ्चमीमुत्पादयति। यथा—'वृक्षं परि विद्योतते, साधुर्देवदत्तो मातरं परि, यदत्र मां परि स्यात्, वृक्षं वृक्षं परि सेकः, परि परि त्रिगर्त्तेभ्यो वृष्टो देवः, विश्‍वप्स्निया विश्‍वतस्परि इति प्रतिपरी षडर्थौ।

(४. अपिः)

१पदार्थ—संभावना२ऽन्ववसर्ग३—४गर्हा—५समुच्चयेष्वपिः। तस्यैतेषूपसर्गसंज्ञा बाध्यते।

(१. पदार्थः)

पदान्तरस्याप्रयुज्यमानस्यार्थः पदार्थः। सर्पिषोऽपि स्यात्, मधुनोऽपि स्यात्। मात्रा बिन्दुः स्तोकमित्यस्यार्थे अपिशब्दो वर्त्तते।

(२. संभावना)

अधिकार्थवचनेन शक्तेरप्रतिघाताविष्करणं संभावना।

'अपि सिञ्चेन्मूलकसहस्त्रम्', 'अपि स्तुयाद् राजानम्' इति।

Showing 751 to 760 of 1182 verses