कार्यार्थाः। यथा— 'विजयते, पराजयते, न्यविक्षत, समगंस्त, अन्वकरोत्, पराकरोत्, विरराम्, उपरराम, उदसिष्यति, उदसिष्यते, अपस्किरते, प्रतिचस्कार, उपस्कुरुते, प्लायते, प्रार्षभीयति, निष्टपति, अभिषेणयति, विषहते, परिष्वजते, विष्णवति, प्रहिणोति, प्रणश्यति, परिणेष्यति, अन्तर्णयति' (काशिका ८.३.६५)
निरर्थकाः, यथा— प्रारभते, प्रलम्बते, प्रसूयते, प्रयच्छति, अपहरति, अपत्रपते, अपह्नुते, अभिषुणोति, निमीलति, निवार्यते, निष्ठीवति, निमज्जति, निखञ्जति, विगाहते, विराजते, विजानाति, विनश्यति, विकत्थते, विदीर्यते, आश्रयति, आश्लिष्यति, संयुज्यते, अध्यागच्छति, पर्यागच्छति इति ॥
(५. अव्ययप्रातिपदिकेषु कर्मप्रवचनीयाः —११)
प्रादय एव क्रियाविशेषोपजनितसंबन्धावच्छेदहेतवः कर्म्मप्रवचनीयाः। यदाह—
क्रियाविशेषजन्यानां संबन्धानां प्रकाशने।
कर्म्मप्रवचनीयाः स्युर्निमित्तमवधारिताः ॥ ३८ ॥ इति।
(संवादी चाऽत्र भर्तृहरिः वाक्यपदीये २.१९९, २.२०४ कारिकाभ्याम्)