भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 711 to 720 of 1182 verses
किं तर्हि ?

ण्यन्तम्। तत्र 'शब्दवैरकलहाऽभ्रकण्वमेघेभ्यः करणे' (३.१.१७) इति वर्त्तते। ततश्‍च करोत्यर्थलक्षणे धात्वर्थसामान्ये णिङ्‌णिचोर्विधानात्, पुच्छस्योदसनं करोत्युत्पुच्छयते, सेनयाभियानं करोत्यभिषेणयति इति करोत्यर्थस्य प्रत्ययेन उदसनाभियानादेस्तूपसर्गेणाविधाने वाचकत्वमेषां भविष्यतीति।

उच्यते— नेह 'करणे' इत्यनेन सकलधात्वर्थानुयायिक्रियास्वमान्यं प्रतिनिर्दिश्यते, अपि त्वनवधारितात्मस्वरूपा उदसनाभियानादयः क्रियाविशेषा एव।

कथमिदं ज्ञायते इति चेत्,

आचार्यप्रवृत्तिर्ज्ञापयति—यदयं

(१) 'मुण्ड—मिश्र—श्‍लक्ष्ण—लवणेभ्यः करणमात्रे प्रत्ययमुदाहरति। तद्‌यथा— मुण्डं करोति मुण्डयति, एवं मिश्रयति, श्‍लक्ष्णयति, लवणयति

(२) हलिकलिकृत तूस्तेभ्यो ग्रहणलक्षणे तद्‌विशेषे (प्रत्ययमुदाहरति)।

यथा— हलिमग्रहीत् अजहलत्, कलिमग्रहीद् अचकलत्, कृतं गृह्‍णाति कृतयति, त्वचं गृह्‍णाति त्वचयति,

(३) वर्णसत्यार्थवेदेभ्यस्तदाचष्टे (३.१.२५) इत्युपसर्गविशिष्टे धात्वर्थे।

यथा— वर्णमाचष्टे वर्णयति, सत्यमाचष्टे सत्यापयति, अर्थमाचष्टेऽ— र्थापयति, वेदमाचष्टे वेदापयति इति;

Showing 711 to 720 of 1182 verses