(४) व्रताद् भोजने तन्निवृत्तौ च। यथा पयो व्रतयति, वृषलान्नं व्रतयति—
अतोऽवमम्यते करण इत्यनेनाऽनवधारितविशेषो धात्वर्थः प्रत्ययाभिधेयतयाऽधिक्रियत' इति।
एवं तर्हि 'सविशेषणस्यैव क्रियाविशेषस्य प्रत्ययेनोक्तत्वाद् अभिषेणयत्यादिषु उपसर्गप्रयोगो न प्राप्नोति, यथा श्येन इवाचरति श्येनायत बाष्पमुद्वमति बाष्पायते, हस्तेन निरस्यति हस्तयते एवं पादयते' इति
भवेदेतत् यत्रैक एव प्रत्ययार्थः। यथा— उपमानादाचारे (३.१.१०), 'बाष्पोष्मभ्यामुद्वमने (३.१.१६), अङ्गान्निरसन इति।
इह तु बहवः प्रत्ययार्थाः। यथा— 'पुच्छादुददसने व्यसने पर्यसने च', 'भाण्डात् समारचने विभजने च', 'चीबरादर्जने परिधाने च, मुण्डादिभ्यः 'तत्करोति, तदाचष्टे, तेनातिक्रामति' इत्यादाविति, तत्र उपात्तस्यापि क्रियाविशेषस्य प्रत्ययतो रूपसामान्यादनवधारणे तदवच्छेदायोपसर्गविशेषः प्रयुज्यते। यथा प्रत्ययार्थविशेषणपक्षे मनःशब्दादुत्पन्नेन क्यङैवोपसर्गार्थविशिष्टप्रत्ययाभिधाने 'सुमनायते,' 'दुर्मनायते', 'अभिमनायत' इति सुदुरभयः प्रयुज्यन्ते।
एवं तर्हि 'हस्तिनातिक्रामत्यतिहस्तयती'—त्यादिवत् 'श्वेताश्वमाचष्टे श्वेतयति', 'अश्वतरमाचष्टे अश्वयति', 'गालोडितमाचष्टे गालोडयति' 'आह्वरकमाचष्टे
आह्वरयति' इत्यादावाङ्प्रयोगः प्राप्नोति।
नैवम्, अत्राडः सहाऽभिधायकत्वात्। न हि क्रामतीत्यादिवच् चष्टे इत्यस्यैकाकिनः स्वार्थाऽभिधाने सामर्थ्यमस्ति। अतो विशेषकत्वमेवैषाम्, न वाचकत्वमिति ॥
अथ सहाभिधायकाः, यथा— प्रस्नुते, प्राणिति, प्रञ्चते, प्राप्नोति, संग्रामयते, संचष्टे, संरम्भते, संधुक्षयति, अनुरुध्यते, विक्लबते, विलोकते, विश्राणयति, आचष्टे, आशास्ते, आचामति, आतङ्कयति, निद्रायति, नियमयते, अधीते, अध्येति, अभिवादयते, परिष्वजते, उज्जासयति, उत्तंसयति' इति।