कर्मप्रवचनीयसंज्ञाधिकारे 'अनुप्रभृतयः शब्दा एकादश, लक्षणादयोऽर्था द्वाविंशति। तद्यथा 'अनुर्लक्षणे, तृतीयार्थे, हीने (१.४.८४—८६), लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः (१.४.९०), अभिरभागे (१.४.९१), प्रतिः प्रतिनिधिप्रतिदानयोः (१.४.९२), अधिपरी अनर्थकौ (१.४.९३), सुः पूजायाम् (१.४.९), अतिरतिक्रमणे (१.४.९), अपिः पदार्थसंभावनाऽन्ववसर्ग—गर्हा—समुच्चयेषु (१.४.९६), अधिरीश्वरे (१.४. ९७), विभाषा कृञि (१.४.९८)।
एवम् 'अनु', उप, अप, परि, आङ्, प्रति, अभि, अधि, सु, अति अपि' इत्येकादश शब्दाः।
हेतु—१लक्षणम्, २सहार्थः, हीनता३, ४आधिक्यम्, ५वर्जनम्, ६मर्यादावचनम्, लक्षणम्७, इत्थम्भूताख्यानम्८, भागः९, वीप्सा१०, प्रतिनिधिः११, प्रतिदानम्१२, आनर्थक्यम्१३, पूजा१४, अतिक्रमणम्१५, पदार्थः१६, संभावना१७, अन्ववसर्गः१८, गर्हा१९, समुच्चयः२०, स्वाम्यम्२१, अधिकारः२२, इति द्वाविंशतिरर्थाः।
तत्राऽनुः सप्तार्थः, प्रतिपरी षडर्थौ, अपिः पञ्चार्थः, अध्यभी ञ्यर्थौ, उपाती द्वयर्थो, आङपसव एकार्थाः' इति। तेषु—
अनुः हेतु१—लक्षण२—सहार्थ३—हीनता४—५लक्षणेत्थंभूताख्यान—भाग६—वीप्सासु७ कर्मप्रवचनीयः। तद्योगे द्वितीया यथा— 'शाकल्यस्य संहितामनुप्रावर्षत्' पर्वतमन्ववसिता सेना, अनुशाकटायनं वैयाकरणाः, वृक्षमनु विद्योतते विद्युत्, साध/?/ /?/र्देवदत्तो मातरमनु, यदत्र मामनुस्यात्, वृक्षं वृक्षमनुतिष्ठति' इति।
क्रियाया द्योतको नायं सम्बन्धस्य न वाचकः।
नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः।
तथाहि शाकल्यस्य संहितामनु प्रावर्षदिति संहिताप्रवर्षणयोर्हेतुफलभूतयो— र्लक्ष्यलक्षणभावो निशमयतिक्रियोपजनित इत्यनुना प्रकाश्यते 'शाकल्यस्य संहितामनु निशम्य प्रावर्षत्' इति। एवमन्यत्राऽप्यवगन्तव्यम्। इत्यनुः सप्तार्थः।