सम्बन्धविभक्तिर्यथा विद्यया यशः, यूयाय दारु गवां कृष्णा संपन्नक्षीरतमा इति
शेषविभक्तिर्यथा मातुः स्मरति, वृक्षस्य पर्ण पतति, माणवकस्य पितरं पन्थानं पृच्छति,
उपपदविभक्तिर्यथा वृक्षं प्रति विद्योतते विद्युत्, नमो देवेभ्यः, ऋते देवदत्तात्।
प्रधानविभक्तिर्यथा देवदत्तः पचति, चैत्रेण पच्यते, वीरः पुरुष इति।
संबोधनविभक्तिर्यथा हे देवदत्त, आगच्छ देवदत्त इति।
(३) तद्धितप्रत्ययविशेषोऽव्ययविभक्तिः।
सा द्विधा— १. विभक्तिकार्यवती, २. अविभक्तिकार्यवती च। (तत्र) —
१. विभक्तिकार्यवती— 'प्राग्दिशो विभक्तिः' (५.३.१), इति। सा त्रिधा—
१. विभक्त्यादेशरूपा, २. प्रत्ययादेशरूपा ३. प्रत्ययरूपा च। तासु— (विभक्त्यादेशरूपा) यथा— पञ्चम्यास्तसिल् (५.३.७), सप्तम्यास्तल् (५.३.१०), इदमो सः (५.३.११), किमोत् (५.३.१२), भवान्, दीर्घायुः, आयुष्मान्, देवानां प्रियः, (५.३.१४ मभा.), तेऽन्यासां चेति। यथा— सर्वस्मात् सर्वतः, यस्मिन् यत्र, तं भवन्तं ततो भवन्तं, एतेन दीर्घायुषा अत्र दीर्घायुषा, इहायुष्मते, कस्य देवानां प्रियस्य क्व देवानां प्रियस्य इति।
(प्रत्ययादेशरूपा)—'तसेश्च' (५.३.८) तसि। स च प्रतियोगे पञ्चम्यास्तसिः (५.४.४४), 'अपादाने चाहियरुहोः' (५.४.४५), 'अतिग्रहा व्यथनक्षेपेष्वकर्त्तरि तृतीयायाः' (५.४.४६), षष्ठ्या व्याश्रये (५.४.४८), 'आद्यादिभ्यश्च सर्वविभक्तिः', इति। यथा— 'अभिमन्युरर्जुनतः प्रति', शैलतोऽवतरति, शीलतोऽविगृह्यते, देवा अर्जुनतोऽभवम्, आदौ आदितः, प्रमाणेन प्रमाणतः इति।