कामचारानुज्ञानमन्ववसर्गः। 'अपि सिञ्च', 'अपि स्तुहि' इति।
निन्दा गर्हा। अपि सिञ्चेत् पलाण्डुम्', 'अपि स्तुयाद् वृषलम्' इति।
अनेकक्रियोपनिपातः समुच्चयः। 'अपि सिञ्च', 'अपि स्तुहि', सिञ्च च स्तुहि चेत्यर्थः। उपसर्गबाधनात् षत्वं न भवति। इत्यपिः पञ्चार्थः।
अधिरानर्थक्याऽधिकारस्वाम्येषु कर्मप्रवचनीयः।
स आद्ययोः 'गतिर्गतौ' (८.१.७०), 'तिङि नोदात्तवति (८.१.७१) इति गत्युपसर्गसंज्ञा— बाधनान् निघातादिकं नानुभवती'—ति। यथा— 'कुतोऽध्यागच्छति, यदत्र मामधिकरिष्यति' इति
स्वाम्ये तु द्विधा १. अधियोगे सप्तमी भवति कदाचित् स्वामिनः